श्री वृद्धकेदारेश्वरस्तवं आदि केदारेश्वरः प्रभो ।
रुद्राक्षमाल सुविमल लोचन श्री वृद्धकेदारेश्वरम् ।।1
त्रिःशक्ति त्रिशूल विशाल रम्ये,स्थापितं तव सन्निधौः।
अखण्ड दीप प्रज्वल वामे, शोभितं तवः विग्रहम् ।।2
महा शिला पुरस्थः द्रष्टं पंचवक्त्र त्रिलोचनम् ।
चतुः श्पादोपरि स्थितं लिंगाकार महेश्वरम् ।।3
श्री वृद्धकेदार पृष्ठ भागे पंच पाण्डवाः लक्षितम् ।
उपरि शैय्यासने रम्येः धर्म राज युधिष्ठिरम् ।।4
पयःक्षीरः घृतस्नात्वा, गौर सर्षप पूजितम् ।
तस्य सर्वाभीष्ट सिद्धि, श्री बृद्ध केदारेश्वरम् ।।5
यः पूजितं इदं लिंगं,भाव-शक्ति समन्वितम् ।
गोत्र-हत्या-ब्रह्माहत्या स्पर्श मात्रेण मुच्यतम् ।।6
धर्म गंगा-बाल गंगे, कपिल भैरव सुस्थिरम् ।
पंच वाद्यैःघोष शब्दौः श्री बृद्ध केदारेश्वरम् ।।7
प्रातः,सन्ध्या समय निशिदिन देवपूजक वन्दितम् ।
धूप पात्रः घण्ट नादम् चतुर्दिश सुशोभितम् ।।8
यः पठेत् इदं स्त्रोत गुरू कैलापीर जगदीश्वरम् ।
तस्यःकांक्षा भवे पूर्णाः श्री वृद्ध केदारेश्वरम् ।।9
